top of page
Vishnu Sahastranam_edited.jpg

श्रीविष्णुसहस्रनामावलिः

पूर्वन्यासः ।

श्रीवेदव्यास उवाच ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।

श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः ।

श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।

अमृतांशूद्भवो भानुरिति बीजम् ।

देवकीनन्दनः स्रष्टेति शक्तिः ।

उद्भवः क्षोभणो देव इति परमो मन्त्रः ।

शङ्खभृन्नन्दकी चक्रीति कीलकम् ।

शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।

रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।

त्रिसामा सामगः सामेति कवचम् ।

आनन्दं परब्रह्मेति योनिः ।

ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

 

श्रीविश्वरूप इति ध्यानम् ।

श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

 

अथ न्यासः ।

ॐ शिरसि वेदव्यासऋषये नमः ।

मुखे अनुष्टुप्छन्दसे नमः ।

हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।

पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।

करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

इति ऋषयादिन्यासः ॥

 

अथ करन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।

अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।

इति करन्यासः ।

 

अथ षडङ्गन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।

अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।

सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।

इति षडङ्गन्यासः ॥

 

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः । ध्यानम् ।

 

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

 

। अथ श्रीविष्णुसहस्रनामावलिः ।

१ ॐ विश्वस्मै नमः ।

२ ॐ विष्णवे नमः ।

३ ॐ वषट्काराय नमः ।

४ ॐ भूतभव्यभवत्प्रभवे नमः ।

५ ॐ भूतकृते नमः ।

६ ॐ भूतभृते नमः ।

७ ॐ भावाय नमः ।

८ ॐ भूतात्मने नमः ।

९ ॐ भूतभावनाय नमः ।

१० ॐ पूतात्मने नमः ।

११ ॐ परमात्मने नमः ।

१२ ॐ मुक्तानां परमायै गतये नमः ।

१३ ॐ अव्ययाय नमः ।

१४ ॐ पुरुषाय नमः ।

१५ ॐ साक्षिणे नमः ।

१६ ॐ क्षेत्रज्ञाय नमः ।

१७ ॐ अक्षराय नमः ।

१८ ॐ योगाय नमः ।

१९ ॐ योगविदां नेत्रे नमः ।

२० ॐ प्रधानपुरुषेश्वराय नमः ।

२१ ॐ नारसिंहवपुषे नमः ।

२२ ॐ श्रीमते नमः ।

२३ ॐ केशवाय नमः ।

२४ ॐ पुरुषोत्तमाय नमः ।

२५ ॐ सर्वस्मै नमः ।

२६ ॐ शर्वाय नमः ।

२७ ॐ शिवाय नमः ।

२८ ॐ स्थाणवे नमः ।

२९ ॐ भूतादये नमः ।

३० ॐ निधयेऽव्ययाय नमः ।

३१ ॐ सम्भवाय नमः ।

३२ ॐ भावनाय नमः ।

३३ ॐ भर्त्रे नमः ।

३४ ॐ प्रभवाय नमः ।

३५ ॐ प्रभवे नमः ।

३६ ॐ ईश्वराय नमः ।

३७ ॐ स्वयम्भुवे नमः ।

३८ ॐ शम्भवे नमः ।

३९ ॐ आदित्याय नमः ।

४० ॐ पुष्कराक्षाय नमः ।

४१ ॐ महास्वनाय नमः ।

४२ ॐ अनादिनिधनाय नमः ।

४३ ॐ धात्रे नमः ।

४४ ॐ विधात्रे नमः ।

४५ ॐ धातवे उत्तमाय नमः ।

४६ ॐ अप्रमेयाय नमः ।

४७ ॐ हृषीकेशाय नमः ।

४८ ॐ पद्मनाभाय नमः ।

४९ ॐ अमरप्रभवे नमः ।

५० ॐ विश्वकर्मणे नमः ।

५१ ॐ मनवे नमः ।

५२ ॐ त्वष्ट्रे नमः ।

५३ ॐ स्थविष्ठाय नमः ।

५४ ॐ स्थविराय ध्रुवाय नमः ।

५५ ॐ अग्राह्याय नमः ।

५६ ॐ शाश्वताय नमः ।

५७ ॐ कृष्णाय नमः ।

५८ ॐ लोहिताक्षाय नमः ।

५९ ॐ प्रतर्दनाय नमः ।

६० ॐ प्रभूताय नमः ।

६१ ॐ त्रिककुब्धाम्ने नमः ।

६२ ॐ पवित्राय नमः ।

६३ ॐ मङ्गल पराय नमः । (मङ्गलाय परस्मै)

६४ ॐ ईशानाय नमः ।

६५ ॐ प्राणदाय नमः ।

६६ ॐ प्राणाय नमः ।

६७ ॐ ज्येष्ठाय नमः ।

६८ ॐ श्रेष्ठाय नमः ।

६९ ॐ प्रजापतये नमः ।

७० ॐ हिरण्यगर्भाय नमः ।

७१ ॐ भूगर्भाय नमः ।

७२ ॐ माधवाय नमः ।

७३ ॐ मधुसूदनाय नमः ।

७४ ॐ ईश्वराय नमः ।

७५ ॐ विक्रमिणे नमः ।

७६ ॐ धन्विने नमः ।

७७ ॐ मेधाविने नमः ।

७८ ॐ विक्रमाय नमः ।

७९ ॐ क्रमाय नमः ।

८० ॐ अनुत्तमाय नमः ।

८१ ॐ दुराधर्षाय नमः ।

८२ ॐ कृतज्ञाय नमः ।

८३ ॐ कृतये नमः ।

८४ ॐ आत्मवते नमः ।

८५ ॐ सुरेशाय नमः ।

८६ ॐ शरणाय नमः ।

८७ ॐ शर्मणे नमः ।

८८ ॐ विश्वरेतसे नमः ।

८९ ॐ प्रजाभवाय नमः ।

९० ॐ अह्ने नमः ।

९१ ॐ संवत्सराय नमः ।

९२ ॐ व्यालाय नमः ।

९३ ॐ प्रत्ययाय नमः ।

९४ ॐ सर्वदर्शनाय नमः ।

९५ ॐ अजाय नमः ।

९६ ॐ सर्वेश्वराय नमः ।

९७ ॐ सिद्धाय नमः ।

९८ ॐ सिद्धये नमः ।

९९ ॐ सर्वादये नमः ।

१०० ॐ अच्युताय नमः ।

१०१ ॐ वृषाकपये नमः ।

१०२ ॐ अमेयात्मने नमः ।

१०३ ॐ सर्वयोगविनिःसृताय नमः ।

१०४ ॐ वसवे नमः ।

१०५ ॐ वसुमनसे नमः ।

१०६ ॐ सत्याय नमः ।

१०७ ॐ समात्मने नमः ।

१०८ ॐ सम्मिताय नमः ।

१०९ ॐ समाय नमः ।

११० ॐ अमोघाय नमः ।

१११ ॐ पुण्डरीकाक्षाय नमः ।

११२ ॐ वृषकर्मणे नमः ।

११३ ॐ वृषाकृतये नमः ।

११४ ॐ रुद्राय नमः ।

११५ ॐ बहुशिरसे नमः ।

११६ ॐ बभ्रवे नमः ।

११७ ॐ विश्वयोनये नमः ।

११८ ॐ शुचिश्रवसे नमः ।

११९ ॐ अमृताय नमः ।

१२० ॐ शाश्वतस्थाणवे नमः ।

१२१ ॐ वरारोहाय नमः ।

१२२ ॐ महातपसे नमः ।

१२३ ॐ सर्वगाय नमः ।

१२४ ॐ सर्वविद्भानवे नमः ।

१२५ ॐ विष्वक्सेनाय नमः ।

१२६ ॐ जनार्दनाय नमः ।

१२७ ॐ वेदाय नमः ।

१२८ ॐ वेदविदे नमः ।

१२९ ॐ अव्यङ्गाय नमः ।

१३० ॐ वेदाङ्गाय नमः ।

१३१ ॐ वेदविदे नमः ।

१३२ ॐ कवये नमः ।

१३३ ॐ लोकाध्यक्षाय नमः ।

१३४ ॐ सुराध्यक्षाय नमः ।

१३५ ॐ धर्माध्यक्षाय नमः ।

१३६ ॐ कृताकृताय नमः ।

१३७ ॐ चतुरात्मने नमः ।

१३८ ॐ चतुर्व्यूहाय नमः ।

१३९ ॐ चतुर्दंष्त्राय नमः ।

१४० ॐ चतुर्भुजाय नमः ।

१४१ ॐ भ्राजिष्णवे नमः ।

१४२ ॐ भोजनाय नमः ।

१४३ ॐ भोक्त्रे नमः ।

१४४ ॐ सहिष्णवे नमः ।

१४५ ॐ जगदादिजाय नमः ।

१४६ ॐ अनघाय नमः ।

१४७ ॐ विजयाय नमः ।

१४८ ॐ जेत्रे नमः ।

१४९ ॐ विश्वयोनये नमः ।

१५० ॐ पुनर्वसवे नमः ।

१५१ ॐ उपेन्द्राय नमः ।

१५२ ॐ वामनाय नमः ।

१५३ ॐ प्रांशवे नमः ।

१५४ ॐ अमोघाय नमः ।

१५५ ॐ शुचये नमः ।

१५६ ॐ ऊर्जिताय नमः ।

१५७ ॐ अतीन्द्राय नमः ।

१५८ ॐ सङ्ग्रहाय नमः ।

१५९ ॐ सर्गाय नमः ।

१६० ॐ धृतात्मने नमः ।

१६१ ॐ नियमाय नमः ।

१६२ ॐ यमाय नमः ।

१६३ ॐ वेद्याय नमः ।

१६४ ॐ वैद्याय नमः ।

१६५ ॐ सदायोगिने नमः ।

१६६ ॐ वीरघ्ने नमः ।

१६७ ॐ माधवाय नमः ।

१६८ ॐ मधवे नमः ।

१६९ ॐ अतीन्द्रियाय नमः ।

१७० ॐ महामायाय नमः ।

१७१ ॐ महोत्साहाय नमः ।

१७२ ॐ महाबलाय नमः ।

१७३ ॐ महाबुद्धये नमः ।

१७४ ॐ महावीर्याय नमः ।

१७५ ॐ महाशक्तये नमः ।

१७६ ॐ महाद्युतये नमः ।

१७७ ॐ अनिर्देश्यवपुषे नमः ।

१७८ ॐ श्रीमते नमः ।

१७९ ॐ अमेयात्मने नमः ।

१८० ॐ महाद्रिधृषे नमः ।

१८१ ॐ महेष्वासाय नमः ।

१८२ ॐ महीभर्त्रे नमः ।

१८३ ॐ श्रीनिवासाय नमः ।

१८४ ॐ सतां गतये नमः ।

१८५ ॐ अनिरुद्धाय नमः ।

१८६ ॐ सुरानन्दाय नमः ।

१८७ ॐ गोविन्दाय नमः ।

१८८ ॐ गोविदां पतये नमः ।

१८९ ॐ मरीचये नमः ।

१९० ॐ दमनाय नमः ।

१९१ ॐ हंसाय नमः ।

१९२ ॐ सुपर्णाय नमः ।

१९३ ॐ भुजगोत्तमाय नमः ।

१९४ ॐ हिरण्यनाभाय नमः ।

१९५ ॐ सुतपसे नमः ।

१९६ ॐ पद्मनाभाय नमः ।

१९७ ॐ प्रजापतये नमः ।

१९८ ॐ अमृत्यवे नमः ।

१९९ ॐ सर्वदृशे नमः ।

२०० ॐ सिंहाय नमः ।

२०१ ॐ सन्धात्रे नमः ।

२०२ ॐ सन्धिमते नमः ।

२०३ ॐ स्थिराय नमः ।

२०४ ॐ अजाय नमः ।

२०५ ॐ दुर्मर्षणाय नमः ।

२०६ ॐ शास्त्रे नमः ।

२०७ ॐ विश्रुतात्मने नमः ।

२०८ ॐ सुरारिघ्ने नमः ।

२०९ ॐ गुरुवे नमः ।

२१० ॐ गुरुतमाय नमः ।

२११ ॐ धाम्ने नमः ।

२१२ ॐ सत्याय नमः ।

२१३ ॐ सत्यपराक्रमाय नमः ।

२१४ ॐ निमिषाय नमः ।

२१५ ॐ अनिमिषाय नमः ।

२१६ ॐ स्रग्वीणे नमः ।

२१७ ॐ वाचस्पतये उदारधिये नमः ।

२१८ ॐ अग्रण्ये नमः ।

२१९ ॐ ग्रामण्ये नमः ।

२२० ॐ श्रीमते नमः ।

२२१ ॐ न्यायाय नमः ।

२२२ ॐ नेत्रे नमः ।

२२३ ॐ समीरणाय नमः ।

२२४ ॐ सहस्रमूर्ध्ने नमः ।

२२५ ॐ विश्वात्मने नमः ।

२२६ ॐ सहस्राक्षाय नमः ।

२२७ ॐ सहस्रपदे नमः ।

२२८ ॐ आवर्तनाय नमः ।

२२९ ॐ निवृत्तात्मने नमः ।

२३० ॐ संवृताय नमः ।

२३१ ॐ सम्प्रमर्दनाय नमः ।

२३२ ॐ अहःसंवर्तकाय नमः ।

२३३ ॐ वह्नये नमः ।

२३४ ॐ अनिलाय नमः ।

२३५ ॐ धरणीधराय नमः ।

२३६ ॐ सुप्रसादाय नमः ।

२३७ ॐ प्रसन्नात्मने नमः ।

२३८ ॐ विश्वधृषे नमः ।

२३९ ॐ विश्वभुजे नमः ।

२४० ॐ विभवे नमः ।

२४१ ॐ सत्कर्त्रे नमः ।

२४२ ॐ सत्कृताय नमः ।

२४३ ॐ साधवे नमः ।

२४४ ॐ जह्नवे नमः ।

२४५ ॐ नारायणाय नमः ।

२४६ ॐ नराय नमः ।

२४७ ॐ असङ्ख्येयाय नमः ।

२४८ ॐ अप्रमेयात्मने नमः ।

२४९ ॐ विशिष्टाय नमः ।

२५० ॐ शिष्टकृते नमः ।

२५१ ॐ शुचये नमः ।

२५२ ॐ सिद्धार्थाय नमः ।

२५३ ॐ सिद्धसङ्कल्पाय नमः ।

२५४ ॐ सिद्धिदाय नमः ।

२५५ ॐ सिद्धिसाधाय नमः ।

२५६ ॐ वृषाहिने नमः ।

२५७ ॐ वृषभाय नमः ।

२५८ ॐ विष्णवे नमः ।

२५९ ॐ वृषपर्वणे नमः ।

२६० ॐ वृषोदराय नमः ।

२६१ ॐ वर्धनाय नमः ।

२६२ ॐ वर्धमानाय नमः ।

२६३ ॐ विविक्ताय नमः ।

२६४ ॐ श्रुतिसागराय नमः ।

२६५ ॐ सुभुजाय नमः ।

२६६ ॐ दुर्धराय नमः ।

२६७ ॐ वाग्मिने नमः ।

२६८ ॐ महेन्द्राय नमः ।

२६९ ॐ वसुदाय नमः ।

२७० ॐ वसवे नमः ।

२७१ ॐ नैकरूपाय नमः ।

२७२ ॐ बृहद्रूपाय नमः ।

२७३ ॐ शिपिविष्टाय नमः ।

२७४ ॐ प्रकाशाय नमः ।

२७५ ॐ ओजस्तेजोद्युतिधराय नमः ।

२७६ ॐ प्रकाशात्मने नमः ।

२७७ ॐ प्रतापनाय नमः ।

२७८ ॐ ऋद्धाय नमः ।

२७९ ॐ स्पष्टाक्षराय नमः ।

२८० ॐ मन्त्राय नमः ।

२८१ ॐ चन्द्रांशवे नमः ।

२८२ ॐ भास्करद्युतये नमः ।

२८३ ॐ अमृतांशूद्भवाय नमः ।

२८४ ॐ भानवे नमः ।

२८५ ॐ शशबिन्दवे नमः ।

२८६ ॐ सुरेश्वराय नमः ।

२८७ ॐ औषधाय नमः ।

२८८ ॐ जगतः सेतवे नमः ।

२८९ ॐ सत्यधर्मपराक्रमाय नमः ।

२९० ॐ भूतभव्यभवन्नाथाय नमः ।

२९१ ॐ पवनाय नमः ।

२९२ ॐ पावनाय नमः ।

२९३ ॐ अनलाय नमः ।

२९४ ॐ कामघ्ने नमः ।

२९५ ॐ कामकृते नमः ।

२९६ ॐ कान्ताय नमः ।

२९७ ॐ कामाय नमः ।

२९८ ॐ कामप्रदाय नमः ।

२९९ ॐ प्रभवे नमः ।

३०० ॐ युगादिकृते नमः ।

३०१ ॐ युगावर्ताय नमः ।

३०२ ॐ नैकमायाय नमः ।

३०३ ॐ महाशनाय नमः ।

३०४ ॐ अदृश्याय नमः ।

३०५ ॐ अव्यक्तरूपाय नमः । (व्यक्तरूपाय)

३०६ ॐ सहस्रजिते नमः ।

३०७ ॐ अनन्तजिते नमः ।

३०८ ॐ इष्टाय नमः ।

३०९ ॐ विशिष्टाय नमः |

३१० ॐ शिष्टेष्टाय नमः ।

३११ ॐ शिखण्डिने नमः ।

३१२ ॐ नहुषाय नमः ।

३१३ ॐ वृषाय नमः ।

३१४ ॐ क्रोधघ्ने नमः ।

३१५ ॐ क्रोधकृत्कर्त्रे नमः ।

३१६ ॐ विश्वबाहवे नमः ।

३१७ ॐ महीधराय नमः ।

३१८ ॐ अच्युताय नमः ।

३१९ ॐ प्रथिताय नमः ।

३२० ॐ प्राणाय नमः ।

३२१ ॐ प्राणदाय नमः ।

३२२ ॐ वासवानुजाय नमः ।

३२३ ॐ अपां निधये नमः ।

३२४ ॐ अधिष्ठानाय नमः ।

३२५ ॐ अप्रमत्ताय नमः ।

३२६ ॐ प्रतिष्ठिताय नमः ।

३२७ ॐ स्कन्दाय नमः ।

३२८ ॐ स्कन्दधराय नमः ।

३२९ ॐ धुर्याय नमः ।

३३० ॐ वरदाय नमः ।

३३१ ॐ वायुवाहनाय नमः ।

३३२ ॐ वासुदेवाय नमः ।

३३३ ॐ बृहद्भानवे नमः ।

३३४ ॐ आदिदेवाय नमः ।

३३५ ॐ पुरन्दराय नमः ।

३३६ ॐ अशोकाय नमः ।

३३७ ॐ तारणाय नमः ।

३३८ ॐ ताराय नमः ।

३३९ ॐ शूराय नमः ।

३४० ॐ शौरये नमः ।

३४१ ॐ जनेश्वराय नमः ।

३४२ ॐ अनुकूलाय नमः ।

३४३ ॐ शतावर्ताय नमः ।

३४४ ॐ पद्मिने नमः ।

३४५ ॐ पद्मनिभेक्षणाय नमः ।

३४६ ॐ पद्मनाभाय नमः ।

३४७ ॐ अरविन्दाक्षाय नमः ।

३४८ ॐ पद्मगर्भाय नमः ।

३४९ ॐ शरीरभृते नमः ।

३५० ॐ महर्द्धये नमः ।

३५१ ॐ ऋद्धाय नमः । 

३५२ ॐ वृद्धात्मने नमः ।

३५३ ॐ महाक्षाय नमः ।

३५४ ॐ गरुडध्वजाय नमः ।

३५५ ॐ अतुलाय नमः ।

३५६ ॐ शरभाय नमः ।

३५७ ॐ भीमाय नमः ।

३५८ ॐ समयज्ञाय नमः ।

३५९ ॐ हविर्हरये नमः ।

३६० ॐ सर्वलक्षणलक्षण्याय नमः ।

३६१ ॐ लक्ष्मीवते नमः ।

३६२ ॐ समितिञ्जयाय नमः ।

३६३ ॐ विक्षराय नमः ।

३६४ ॐ रोहिताय नमः ।

३६५ ॐ मार्गाय नमः ।

३६६ ॐ हेतवे नमः ।

३६७ ॐ दामोदराय नमः ।

३६८ ॐ सहाय नमः ।

३६९ ॐ महीधराय नमः । 

३७० ॐ महाभागाय नमः ।

३७१ ॐ वेगवते नमः ।

३७२ ॐ अमिताशनाय नमः ।

३७३ ॐ उद्भवाय नमः ।

३७४ ॐ क्षोभणाय नमः ।

३७५ ॐ देवाय नमः ।

३७६ ॐ श्रीगर्भाय नमः ।

३७७ ॐ परमेश्वराय नमः ।

३७८ ॐ करणाय नमः ।

३७९ ॐ कारणाय नमः ।

३८० ॐ कर्त्रे नमः ।

३८१ ॐ विकर्त्रे नमः ।

३८२ ॐ गहनाय नमः ।

३८३ ॐ गुहाय नमः ।

३८४ ॐ व्यवसायाय नमः ।

३८५ ॐ व्यवस्थानाय नमः ।

३८६ ॐ संस्थानाय नमः ।

३८७ ॐ स्थानदाय नमः ।

३८८ ॐ ध्रुवाय नमः ।

३८९ ॐ परर्द्धये नमः ।

३९० ॐ परमस्पष्टाय नमः ।

३९१ ॐ तुष्टाय नमः ।

३९२ ॐ पुष्टाय नमः ।

३९३ ॐ शुभेक्षणाय नमः ।

३९४ ॐ रामाय नमः ।

३९५ ॐ विरामाय नमः ।

३९६ ॐ विरजसे नमः ।

३९७ ॐ मार्गाय नमः ।

३९८ ॐ नेयाय नमः ।

३९९ ॐ नयाय नमः ।

४०० ॐ अनयाय नमः ।

४०१ ॐ वीराय नमः ।

४०२ ॐ शक्तिमतां श्रेष्ठाय नमः ।

४०३ ॐ धर्माय नमः ।

४०४ ॐ धर्मविदुत्तमाय नमः ।

४०५ ॐ वैकुण्ठाय नमः ।

४०६ ॐ पुरुषाय नमः ।

४०७ ॐ प्राणाय नमः ।

४०८ ॐ प्राणदाय नमः ।

४०९ ॐ प्रणवाय नमः ।

४१० ॐ पृथवे नमः ।

४११ ॐ हिरण्यगर्भाय नमः ।

४१२ ॐ शत्रुघ्नाय नमः ।

४१३ ॐ व्याप्ताय नमः ।

४१४ ॐ वायवे नमः ।

४१५ ॐ अधोक्षजाय नमः ।

४१६ ॐ ऋतवे नमः ।

४१७ ॐ सुदर्शनाय नमः ।

४१८ ॐ कालाय नमः ।

४१९ ॐ परमेष्ठिने नमः ।

४२० ॐ परिग्रहाय नमः ।

४२१ ॐ उग्राय नमः ।

४२२ ॐ संवत्सराय नमः ।

४२३ ॐ दक्षाय नमः ।

४२४ ॐ विश्रामाय नमः ।

४२५ ॐ विश्वदक्षिणाय नमः ।

४२६ ॐ विस्ताराय नमः ।

४२७ ॐ स्थावरस्थाणवे नमः ।

४२८ ॐ प्रमाणाय नमः ।

४२९ ॐ बीजायाव्ययाय नमः ।

४३० ॐ अर्थाय नमः ।

४३१ ॐ अनर्थाय नमः ।

४३२ ॐ महाकोशाय नमः ।

४३३ ॐ महाभोगाय नमः ।

४३४ ॐ महाधनाय नमः ।

४३५ ॐ अनिर्विण्णाय नमः ।

४३६ ॐ स्थविष्ठाय नमः 

४३७ ॐ अभुवे नमः ।

४३८ ॐ धर्मयूपाय नमः ।

४३९ ॐ महामखाय नमः ।

४४० ॐ नक्षत्रनेमये नमः ।

४४१ ॐ नक्षत्रिणे नमः ।

४४२ ॐ क्षमाय नमः ।

४४३ ॐ क्षामाय नमः ।

४४४ ॐ समीहनाय नमः ।

४४५ ॐ यज्ञाय नमः ।

४४६ ॐ इज्याय नमः ।

४४७ ॐ महेज्याय नमः ।

४४८ ॐ क्रतवे नमः ।

४४९ ॐ सत्राय नमः ।

४५० ॐ सतां गतये नमः ।

४५१ ॐ सर्वदर्शिने नमः ।

४५२ ॐ विमुक्तात्मने नमः ।

४५३ ॐ सर्वज्ञाय नमः ।

४५४ ॐ ज्ञानाय उत्तमाय नमः ।

४५५ ॐ सुव्रताय नमः ।

४५६ ॐ सुमुखाय नमः ।

४५७ ॐ सूक्ष्माय नमः ।

४५८ ॐ सुघोषाय नमः ।

४५९ ॐ सुखदाय नमः ।

४६० ॐ सुहृदे नमः ।

४६१ ॐ मनोहराय नमः ।

४६२ ॐ जितक्रोधाय नमः ।

४६३ ॐ वीरबाहवे नमः ।

४६४ ॐ विदारणाय नमः ।

४६५ ॐ स्वापनाय नमः ।

४६६ ॐ स्ववशाय नमः ।

४६७ ॐ व्यापिने नमः ।

४६८ ॐ नैकात्माने नमः ।

४६९ ॐ नैककर्मकृते नमः ।

४७० ॐ वत्सराय नमः ।

४७१ ॐ वत्सलाय नमः ।

४७२ ॐ वत्सिने नमः ।

४७३ ॐ रत्नगर्भाय नमः ।

४७४ ॐ धनेश्वराय नमः ।

४७५ ॐ धर्मगुपे नमः ।

४७६ ॐ धर्मकृते नमः ।

४७७ ॐ धर्मिणे नमः ।

४७८ ॐ सते नमः ।

४७९ ॐ असते नमः ।

४८० ॐ क्षराय नमः ।

४८१ ॐ अक्षराय नमः । 

४८२ ॐ अविज्ञात्रे नमः ।

४८३ ॐ सहस्रांशवे नमः ।

४८४ ॐ विधात्रे नमः ।

४८५ ॐ कृतलक्षणाय नमः ।

४८६ ॐ गभस्तिनेमये नमः ।

४८७ ॐ सत्त्वस्थाय नमः ।

४८८ ॐ सिंहाय नमः ।

४८९ ॐ भूतमहेश्वराय नमः ।

४९० ॐ आदिदेवाय नमः ।

४९१ ॐ महादेवाय नमः ।

४९२ ॐ देवेशाय नमः ।

४९३ ॐ देवभृद्गुरवे नमः ।

४९४ ॐ उत्तरस्मै नमः ।

४९५ ॐ गोपतये नमः ।

४९६ ॐ गोप्त्रे नमः ।

४९७ ॐ ज्ञानगम्याय नमः ।

४९८ ॐ पुरातनाय नमः ।

४९९ ॐ शरीरभूतभृते नमः ।

५०० ॐ भोक्त्रे नमः ।

५०१ ॐ कपीन्द्राय नमः ।

५०२ ॐ भूरिदक्षिणाय नमः ।

५०३ ॐ सोमपाय नमः ।

५०४ ॐ अमृतपाय नमः ।

५०५ ॐ सोमाय नमः ।

५०६ ॐ पुरुजिते नमः ।

५०७ ॐ पुरुसत्तमाय नमः ।

५०८ ॐ विनयाय नमः ।

५०९ ॐ जयाय नमः ।

५१० ॐ सत्यसन्धाय नमः ।

५११ ॐ दाशार्हाय नमः ।

५१२ ॐ सात्वतां पतये नमः ।

५१३ ॐ जीवाय नमः ।

५१४ ॐ विनयितासाक्षिणे नमः ।

५१५ ॐ मुकुन्दाय नमः ।

५१६ ॐ अमितविक्रमाय नमः ।

५१७ ॐ अम्भोनिधये नमः ।

५१८ ॐ अनन्तात्मने नमः ।

५१९ ॐ महोदधिशयाय नमः ।

५२० ॐ अन्तकाय नमः ।

५२१ ॐ अजाय नमः ।

५२२ ॐ महार्हाय नमः ।

५२३ ॐ स्वाभाव्याय नाम ।

५२४ ॐ जितामित्राय नमः ।

५२५ ॐ प्रमोदनाय नमः ।

५२६ ॐ आनन्दाय नमः ।

५२७ ॐ नन्दनाय नमः ।

५२८ ॐ नन्दाय नमः ।

५२९ ॐ सत्यधर्माय नमः ।

५३० ॐ त्रिविक्रमाय नमः ।

५३१ ॐ महर्षये कपिलाचार्याय नमः ।

५३२ ॐ कृतज्ञाय नमः ।

५३३ ॐ मेदिनीपतये नमः ।

५३४ ॐ त्रिपदाय नमः ।

५३५ ॐ त्रिदशाध्यक्षाय नमः ।

५३६ ॐ महाश‍ृङ्गाय नमः ।

५३७ ॐ कृतान्तकृते नमः ।

५३८ ॐ महावराहाय नमः ।

५३९ ॐ गोविन्दाय नमः ।

५४० ॐ सुषेणाय नमः ।

५४१ ॐ कनकाङ्गदिने नमः ।

५४२ ॐ गुह्याय नमः ।

५४३ ॐ गभीराय नमः ।

५४४ ॐ गहनाय नमः ।

५४५ ॐ गुप्ताय नमः ।

५४६ ॐ चक्रगदाधराय नमः ।

५४७ ॐ वेधसे नमः ।

५४८ ॐ स्वाङ्गाय नमः ।

५४९ ॐ अजिताय नमः ।

५५० ॐ कृष्णाय नमः ।

५५१ ॐ दृढाय नमः ।

५५२ ॐ सङ्कर्षणाच्युताय नमः ।

५५३ ॐ वरुणाय नमः ।

५५४ ॐ वारुणाय नमः ।

५५५ ॐ वृक्षाय नमः ।

५५६ ॐ पुष्कराक्षाय नमः ।

५५७ ॐ महामनसे नमः ।

५५८ ॐ भगवते नमः ।

५५९ ॐ भगघ्ने नमः ।

५६० ॐ आनन्दिने नमः ।

५६१ ॐ वनमालिने नमः ।

५६२ ॐ हलायुधाय नमः ।

५६३ ॐ आदित्याय नमः ।

५६४ ॐ ज्योतिरादित्याय नमः ।

५६५ ॐ सहिष्णवे नमः ।

५६६ ॐ गतिसत्तमाय नमः ।

५६७ ॐ सुधन्वने नमः ।

५६८ ॐ खण्डपरशवे नमः ।

५६९ ॐ दारुणाय नमः ।

५७० ॐ द्रविणप्रदाय नमः ।

५७१ ॐ दिविस्पृशे नमः ।

५७२ ॐ सर्वदृग्व्यासाय नमः ।

५७३ ॐ वाचस्पतये अयोनिजाय नमः ।

५७४ ॐ त्रिसाम्ने नमः ।

५७५ ॐ सामगाय नमः ।

५७६ ॐ साम्ने नमः ।

५७७ ॐ निर्वाणाय नमः ।

५७८ ॐ भेषजाय नमः ।

५७९ ॐ भिषजे नमः ।

५८० ॐ संन्यासकृते नमः ।

५८१ ॐ शमाय नमः ।

५८२ ॐ शान्ताय नमः ।

५८३ ॐ निष्ठायै नमः ।

५८४ ॐ शान्त्यै नमः ।

५८५ ॐ परायणाय नमः ।

५८६ ॐ शुभाङ्गाय नमः ।

५८७ ॐ शान्तिदाय नमः ।

५८८ ॐ स्रष्ट्रे नमः ।

५८९ ॐ कुमुदाय नमः ।

५९० ॐ कुवलेशयाय नमः ।

५९१ ॐ गोहिताय नमः ।

५९२ ॐ गोपतये नमः ।

५९३ ॐ गोप्त्रे नमः ।

५९४ ॐ वृषभाक्षाय नमः ।

५९५ ॐ वृषप्रियाय नमः ।

५९६ ॐ अनिवर्तिने नमः ।

५९७ ॐ निवृत्तात्मने नमः ।

५९८ ॐ सङ्क्षेप्त्रे नमः ।

५९९ ॐ क्षेमकृते नमः ।

६०० ॐ शिवाय नमः ।

६०१ ॐ श्रीवत्सवक्षसे नमः ।

६०२ ॐ श्रीवासाय नमः ।

६०३ ॐ श्रीपतये नमः ।

६०४ ॐ श्रीमतां वराय नमः ।

६०५ ॐ श्रीदाय नमः ।

६०६ ॐ श्रीशाय नमः ।

६०७ ॐ श्रीनिवासाय नमः ।

६०८ ॐ श्रीनिधये नमः ।

६०९ ॐ श्रीविभावनाय नमः ।

६१० ॐ श्रीधराय नमः ।

६११ ॐ श्रीकराय नमः ।

६१२ ॐ श्रेयसे नमः ।

६१३ ॐ श्रीमते नमः ।

६१४ ॐ लोकत्रयाश्रयाय नमः ।

६१५ ॐ स्वक्षाय नमः ।

६१६ ॐ स्वङ्गाय नमः ।

६१७ ॐ शतानन्दाय नमः ।

६१८ ॐ नन्द्ये नमः ।

६१९ ॐ ज्योतिर्गणेश्वराय नमः ।

६२० ॐ विजितात्मने नमः ।

६२१ ॐ अविधेयात्मने नमः । (विधेयात्मने)

६२२ ॐ सत्कीर्तये नमः ।

६२३ ॐ छिन्नसंशयाय नमः ।

६२४ ॐ उदीर्णाय नमः ।

६२५ ॐ सर्वतश्चक्षुषे नमः ।

६२६ ॐ अनीशाय नमः ।

६२७ ॐ शाश्वतस्थिराय नमः ।

६२८ ॐ भूशयाय नमः ।

६२९ ॐ भूषणाय नमः ।

६३० ॐ भूतये नमः ।

६३१ ॐ विशोकाय नमः ।

६३२ ॐ शोकनाशनाय नमः ।

६३३ ॐ अर्चिष्मते नमः ।

६३४ ॐ अर्चिताय नमः ।

६३५ ॐ कुम्भाय नमः ।

६३६ ॐ विशुद्धात्मने नमः ।

६३७ ॐ विशोधनाय नमः ।

६३८ ॐ अनिरुद्धाय नमः ।

६३९ ॐ अप्रतिरथाय नमः ।

६४० ॐ प्रद्युम्नाय नमः ।

६४१ ॐ अमितविक्रमाय नमः ।

६४२ ॐ कालनेमिनिघ्ने नमः ।

६४३ ॐ वीराय नमः ।

६४४ ॐ शौरये नमः ।

६४५ ॐ शूरजनेश्वराय नमः ।

६४६ ॐ त्रिलोकात्मने नमः ।

६४७ ॐ त्रिलोकेशाय नमः ।

६४८ ॐ केशवाय नमः ।

६४९ ॐ केशिघ्ने नमः ।

६५० ॐ हरये नमः ।

६५१ ॐ कामदेवाय नमः ।

६५२ ॐ कामपालाय नमः ।

६५३ ॐ कामिने नमः ।

६५४ ॐ कान्ताय नमः ।

६५५ ॐ कृतागमाय नमः ।

६५६ ॐ अनिर्देश्यवपुषे नमः ।

६५७ ॐ विष्णवे नमः ।

६५८ ॐ वीराय नमः ।

६५९ ॐ अनन्ताय नमः ।

६६० ॐ धनञ्जयाय नमः ।

६६१ ॐ ब्रह्मण्याय नमः ।

६६२ ॐ ब्रह्मकृते नमः ।

६६३ ॐ ब्रह्मणे नमः ।

६६४ ॐ ब्रह्मणे नमः ।

६६५ ॐ ब्रह्मविवर्धनाय नमः ।

६६६ ॐ ब्रह्मविदे नमः ।

६६७ ॐ ब्राह्मणाय नमः ।

६६८ ॐ ब्रह्मिणे नमः ।

६६९ ॐ ब्रह्मज्ञाय नमः ।

६७० ॐ ब्राह्मणप्रियाय नमः ।

६७१ ॐ महाक्रमाय नमः ।

६७२ ॐ महाकर्मणे नमः ।

६७३ ॐ महातेजसे नमः ।

६७४ ॐ महोरगाय नमः ।

६७५ ॐ महाक्रतवे नमः ।

६७६ ॐ महायज्वने नमः ।

६७७ ॐ महायज्ञाय नमः ।

६७८ ॐ महाहविषे नमः ।

६७९ ॐ स्तव्याय नमः ।

६८० ॐ स्तवप्रियाय नमः ।

६८१ ॐ स्तोत्राय नमः ।

६८२ ॐ स्तुतये नमः ।

६८३ ॐ स्तोत्रे नमः ।

६८४ ॐ रणप्रियाय नमः ।

६८५ ॐ पूर्णाय नमः ।

६८६ ॐ पूरयित्रे नमः ।

६८७ ॐ पुण्याय नमः ।

६८८ ॐ पुण्यकीर्तये नमः ।

६८९ ॐ अनामयाय नमः ।

६९० ॐ मनोजवाय नमः ।

६९१ ॐ तीर्थकराय नमः ।

६९२ ॐ वसुरेतसे नमः ।

६९३ ॐ वसुप्रदाय नमः ।

६९४ ॐ वसुप्रदाय नमः ।

६९५ ॐ वासुदेवाय नमः ।

६९६ ॐ वसवे नमः ।

६९७ ॐ वसुमनसे नमः ।

६९८ ॐ हविषे नमः ।

६९९ ॐ सद्गतये नमः ।

७०० ॐ सद्कृतये नमः ।

७०१ ॐ सत्तायै नमः ।

७०२ ॐ सद्भूतये नमः ।

७०३ ॐ सत्परायणाय नमः ।

७०४ ॐ शूरसेनाय नमः ।

७०५ ॐ यदुश्रेष्ठाय नमः ।

७०६ ॐ सन्निवासाय नमः ।

७०७ ॐ सूयामुनाय नमः ।

७०८ ॐ भूतावासाय नमः ।

७०९ ॐ वासुदेवाय नमः ।

७१० ॐ सर्वासुनिलयाय नमः ।

७११ ॐ अनलाय नमः ।

७१२ ॐ दर्पघ्ने नमः ।

७१३ ॐ दर्पदाय नमः ।

७१४ ॐ दृप्ताय नमः ।

७१५ ॐ दुर्धराय नमः ।

७१६ ॐ अपराजिताय नमः ।

७१७ ॐ विश्वमूर्तये नमः ।

७१८ ॐ महामूर्तये नमः ।

७१९ ॐ दीप्तमूर्तये नमः ।

७२० ॐ अमूर्तिमते नमः ।

७२१ ॐ अनेकमूर्तये नमः ।

७२२ ॐ अव्यक्ताय नमः ।

७२३ ॐ शतमूर्तये नमः ।

७२४ ॐ शताननाय नमः ।

७२५ ॐ एकस्मै नमः ।

७२६ ॐ नैकाय नमः ।

७२७ ॐ सवाय नमः ।

७२८ ॐ काय नमः ।

७२९ ॐ कस्मै नमः ।

७३० ॐ यस्मै नमः ।

७३१ ॐ तस्मै नमः ।

७३२ ॐ पदायानुत्तमाय नमः ।

७३३ ॐ लोकबन्धवे नमः ।

७३४ ॐ लोकनाथाय नमः ।

७३५ ॐ माधवाय नमः ।

७३६ ॐ भक्तवत्सलाय नमः ।

७३७ ॐ सुवर्णवर्णाय नमः ।

७३८ ॐ हेमाङ्गाय नमः ।

७३९ ॐ वराङ्गाय नमः ।

७४० ॐ चन्दनाङ्गदिने नमः ।

७४१ ॐ वीरघ्ने नमः ।

७४२ ॐ विषमाय नमः ।

७४३ ॐ शून्याय नमः ।

७४४ ॐ घृताशीषे नमः ।

७४५ ॐ अचलाय नमः ।

७४६ ॐ चलाय नमः ।

७४७ ॐ अमानिने नमः ।

७४८ ॐ मानदाय नमः ।

७४९ ॐ मान्याय नमः ।

७५० ॐ लोकस्वामिने नमः ।

७५१ ॐ त्रिलोकधृषे नमः ।

७५२ ॐ सुमेधसे नमः ।

७५३ ॐ मेधजाय नमः ।

७५४ ॐ धन्याय नमः ।

७५५ ॐ सत्यमेधसे नमः ।

७५६ ॐ धराधराय नमः ।

७५७ ॐ तेजोवृषाय नमः ।

७५८ ॐ द्युतिधराय नमः ।

७५९ ॐ सर्वशस्त्रभृतां वराय नमः ।

७६० ॐ प्रग्रहाय नमः ।

७६१ ॐ निग्रहाय नमः ।

७६२ ॐ व्यग्राय नमः ।

७६३ ॐ नैकश‍ृङ्गाय नमः ।

७६४ ॐ गदाग्रजाय नमः ।

७६५ ॐ चतुर्मूर्तये नमः ।

७६६ ॐ चतुर्बाहवे नमः ।

७६७ ॐ चतुर्व्यूहाय नमः ।

७६८ ॐ चतुर्गतये नमः ।

७६९ ॐ चतुरात्मने नमः ।

७७० ॐ चतुर्भावाय नमः ।

७७१ ॐ चतुर्वेदविदे नमः ।

७७२ ॐ एकपदे नमः ।

७७३ ॐ समावर्ताय नमः ।

७७४ ॐ अनिवृत्तात्मने नमः । (निवृत्तात्मने)

७७५ ॐ दुर्जयाय नमः ।

७७६ ॐ दुरतिक्रमाय नमः ।

७७७ ॐ दुर्लभाय नमः ।

७७८ ॐ दुर्गमाय नमः ।

७७९ ॐ दुर्गाय नमः ।

७८० ॐ दुरावासाय नमः ।

७८१ ॐ दुरारिघ्ने नमः ।

७८२ ॐ शुभाङ्गाय नमः ।

७८३ ॐ लोकसारङ्गाय नमः ।

७८४ ॐ सुतन्तवे नमः ।

७८५ ॐ तन्तुवर्धनाय नमः ।

७८६ ॐ इन्द्रकर्मणे नमः ।

७८७ ॐ महाकर्मणे नमः ।

७८८ ॐ कृतकर्मणे नमः ।

७८९ ॐ कृतागमाय नमः ।

७९० ॐ उद्भवाय नमः ।

७९१ ॐ सुन्दराय नमः ।

७९२ ॐ सुन्दाय नमः ।

७९३ ॐ रत्ननाभाय नमः ।

७९४ ॐ सुलोचनाय नमः ।

७९५ ॐ अर्काय नमः ।

७९६ ॐ वाजसनाय नमः ।

७९७ ॐ श‍ृङ्गिणे नमः ।

७९८ ॐ जयन्ताय नमः ।

७९९ ॐ सर्वविज्जयिने नमः ।

८०० ॐ सुवर्णबिन्दवे नमः ।

८०१ ॐ अक्षोभ्याय नमः ।

८०२ ॐ सर्ववागीश्वरेश्वराय नमः ।

८०३ ॐ महाहृदाय नमः ।

८०४ ॐ महागर्ताय नमः ।

८०५ ॐ महाभूताय नमः ।

८०६ ॐ महानिधये नमः ।

८०७ ॐ कुमुदाय नमः ।

८०८ ॐ कुन्दराय नमः ।

८०९ ॐ कुन्दाय नमः ।

८१० ॐ पर्जन्याय नमः ।

८११ ॐ पावनाय नमः ।

८१२ ॐ अनिलाय नमः ।

८१३ ॐ अमृताशाय नमः ।

८१४ ॐ अमृतवपुषे नमः ।

८१५ ॐ सर्वज्ञाय नमः ।

८१६ ॐ सर्वतोमुखाय नमः ।

८१७ ॐ सुलभाय नमः ।

८१८ ॐ सुव्रताय नमः ।

८१९ ॐ सिद्धाय नमः ।

८२० ॐ शत्रुजिते नमः ।

८२१ ॐ शत्रुतापनाय नमः ।

८२२ ॐ न्यग्रोधाय नमः ।

८२३ ॐ उदुम्बराय नमः ।

८२४ ॐ अश्वत्थाय नमः ।

८२५ ॐ चाणूरान्ध्रनिषूदनाय नमः ।

८२६ ॐ सहस्रार्चिषे नमः ।

८२७ ॐ सप्तजिह्वाय नमः ।

८२८ ॐ सप्तैधसे नमः ।

८२९ ॐ सप्तवाहनाय नमः ।

८३० ॐ अमूर्तये नमः ।

८३१ ॐ अनघाय नमः ।

८३२ ॐ अचिन्त्याय नमः ।

८३३ ॐ भयकृते नमः ।

८३४ ॐ भयनाशनाय नमः ।

८३५ ॐ अणवे नमः ।

८३६ ॐ बृहते नमः ।

८३७ ॐ कृशाय नमः ।

८३८ ॐ स्थूलाय नमः ।

८३९ ॐ गुणभृते नमः ।

८४० ॐ निर्गुणाय नमः ।

८४१ ॐ महते नमः ।

८४२ ॐ अधृताय नमः ।

८४३ ॐ स्वधृताय नमः ।

८४४ ॐ स्वास्याय नमः ।

८४५ ॐ प्राग्वंशाय नमः ।

८४६ ॐ वंशवर्धनाय नमः ।

८४७ ॐ भारभृते नमः ।

८४८ ॐ कथिताय नमः ।

८४९ ॐ योगिने नमः ।

८५० ॐ योगीशाय नमः ।

८५१ ॐ सर्वकामदाय नमः ।

८५२ ॐ आश्रमाय नमः ।

८५३ ॐ श्रमणाय नमः ।

८५४ ॐ क्षामाय नमः ।

८५५ ॐ सुपर्णाय नमः ।

८५६ ॐ वायुवाहनाय नमः ।

८५७ ॐ धनुर्धराय नमः ।

८५८ ॐ धनुर्वेदाय नमः ।

८५९ ॐ दण्डाय नमः ।

८६० ॐ दमयित्रे नमः ।

८६१ ॐ दमाय नमः ।

८६२ ॐ अपराजिताय नमः ।

८६३ ॐ सर्वसहाय नमः ।

८६४ ॐ नियन्त्रे नमः ।

८६५ ॐ नियमाय नमः ।

८६६ ॐ यमाय नमः ।

८६७ ॐ सत्त्ववते नमः ।

८६८ ॐ सात्त्विकाय नमः ।

८६९ ॐ सत्याय नमः ।

८७० ॐ सत्यधर्मपरायणाय नमः ।

८७१ ॐ अभिप्रायाय नमः ।

८७२ ॐ प्रियार्हाय नमः ।

८७३ ॐ अर्हाय नमः ।

८७४ ॐ प्रियकृते नमः ।

८७५ ॐ प्रीतिवर्धनाय नमः ।

८७६ ॐ विहायसगतये नमः ।

८७७ ॐ ज्योतिषे नमः ।

८७८ ॐ सुरुचये नमः ।

८७९ ॐ हुतभुजे नमः ।

८८० ॐ विभवे नमः ।

८८१ ॐ रवये नमः ।

८८२ ॐ विरोचनाय नमः ।

८८३ ॐ सूर्याय नमः ।

८८४ ॐ सवित्रे नमः ।

८८५ ॐ रविलोचनाय नमः ।

८८६ ॐ अनन्ताय नमः ।

८८७ ॐ हुतभुजे नमः ।

८८८ ॐ भोक्त्रे नमः ।

८८९ ॐ सुखदाय नमः ।

८९० ॐ नैकजाय नमः ।

८९१ ॐ अग्रजाय नमः ।

८९२ ॐ अनिर्विण्णाय नमः ।

८९३ ॐ सदामर्षिणे नमः ।

८९४ ॐ लोकाधिष्ठानाय नमः ।

८९५ ॐ अद्भूताय नमः ।

८९६ ॐ सनाते नमः ।

८९७ ॐ सनातनतमाय नमः ।

८९८ ॐ कपिलाय नमः ।

८९९ ॐ कपये नमः ।

९०० ॐ अप्ययाय नमः । (अव्ययाय)

९०१ ॐ स्वस्तिदाय नमः ।

९०२ ॐ स्वस्तिकृते नमः ।

९०३ ॐ स्वस्तये नमः ।

९०४ ॐ स्वस्तिभुजे नमः ।

९०५ ॐ स्वस्तिदक्षिणाय नमः ।

९०६ ॐ अरौद्राय नमः ।

९०७ ॐ कुण्डलिने नमः ।

९०८ ॐ चक्रिणे नमः ।

९०९ ॐ विक्रमिणे नमः ।

९१० ॐ उर्जितशासनाय नमः ।

९११ ॐ शब्दातिगाय नमः ।

९१२ ॐ शब्दसहाय नमः ।

९१३ ॐ शिशिराय नमः ।

९१४ ॐ शर्वरीकराय नमः ।

९१५ ॐ अक्रूराय नमः ।

९१६ ॐ पेशलाय नमः ।

९१७ ॐ दक्षाय नमः ।

९१८ ॐ दक्षिणस्यै नमः ।

९१९ ॐ क्षमिणां वराय नमः ।

९२० ॐ विद्वत्तमाय नमः ।

९२१ ॐ वीतभयाय नमः ।

९२२ ॐ पुण्यश्रवणकीर्तनाय नमः ।

९२३ ॐ उत्तारणाय नमः ।

९२४ ॐ दुष्कृतिघ्ने नमः ।

९२५ ॐ पुण्याय नमः ।

९२६ ॐ दुःस्वप्ननाशनाय नमः ।

९२७ ॐ वीरघ्ने नमः ।

९२८ ॐ रक्षणाय नमः ।

९२९ ॐ सद्भ्यो नमः ।

९३० ॐ जीवनाय नमः ।

९३१ ॐ पर्यवस्थिताय नाम ।

९३२ ॐ अनन्तरूपाय नमः ।

९३३ ॐ अनन्तश्रिये नमः ।

९३४ ॐ जितमन्यवे नमः ।

९३५ ॐ भयापहाय नमः ।

९३६ ॐ चतुरस्राय नमः ।

९३७ ॐ गभीरात्मने नमः ।

९३८ ॐ विदिशाय नमः ।

९३९ ॐ व्यादिशाय नमः ।

९४० ॐ दिशाय नमः ।

९४१ ॐ अनादये नमः ।

९४२ ॐ भूर्भुवे नमः ।

९४३ ॐ लक्ष्म्यै नमः ।

९४४ ॐ सुवीराय नमः ।

९४५ ॐ रुचिराङ्गदाय नमः ।

९४६ ॐ जननाय नमः ।

९४७ ॐ जनजन्मादये नमः ।

९४८ ॐ भीमाय नमः ।

९४९ ॐ भीमपराक्रमाय नमः ।

९५० ॐ आधारनिलयाय नमः ।

९५१ ॐ अधात्रे नमः । (धात्रे)

९५२ ॐ पुष्पहासाय नमः ।

९५३ ॐ प्रजागराय नमः ।

९५४ ॐ ऊर्ध्वगाय नमः ।

९५५ ॐ सत्पथाचाराय नमः ।

९५६ ॐ प्राणदाय नमः ।

९५७ ॐ प्रणवाय नमः ।

९५८ ॐ पणाय नमः ।

९५९ ॐ प्रमाणाय नमः ।

९६० ॐ प्राणनिलयाय नमः ।

९६१ ॐ प्राणभृते नमः ।

९६२ ॐ प्राणजीवनाय नमः ।

९६३ ॐ तत्त्वाय नमः ।

९६४ ॐ तत्त्वविदे नमः ।

९६५ ॐ एकात्मने नमः ।

९६६ ॐ जन्ममृत्युजरातिगाय नमः ।

९६७ ॐ भूर्भुवःस्वस्तरवे नमः ।

९६८ ॐ ताराय नमः ।

९६९ ॐ सवित्रे नमः ।

९७० ॐ प्रपितामहाय नमः ।

९७१ ॐ यज्ञाय नमः ।

९७२ ॐ यज्ञपतये नमः ।

९७३ ॐ यज्वने नमः ।

९७४ ॐ यज्ञाङ्गाय नमः ।

९७५ ॐ यज्ञवाहनाय नमः ।

९७६ ॐ यज्ञभृते नमः ।

९७७ ॐ यज्ञकृते नमः ।

९७८ ॐ यज्ञिने नमः ।

९७९ ॐ यज्ञभुजे नमः ।

९८० ॐ यज्ञसाधनाय नमः ।

९८१ ॐ यज्ञान्तकृते नमः ।

९८२ ॐ यज्ञगुह्याय नमः ।

९८३ ॐ अन्नाय नमः ।

९८४ ॐ अन्नादाय नमः ।

९८५ ॐ आत्मयोनये नमः ।

९८६ ॐ स्वयंजाताय नमः ।

९८७ ॐ वैखानाय नमः ।

९८८ ॐ सामगायनाय नमः ।

९८९ ॐ देवकीनन्दनाय नमः ।

९९० ॐ स्रष्ट्रे नमः ।

९९१ ॐ क्षितीशाय नमः ।

९९२ ॐ पापनाशनाय नमः ।

९९३ ॐ शङ्खभृते नमः ।

९९४ ॐ नन्दकिने नमः ।

९९५ ॐ चक्रिणे नमः ।

९९६ ॐ शार्ङ्गधन्वने नमः ।

९९७ ॐ गदाधराय नमः ।

९९८ ॐ रथाङ्गपाणये नमः ।

९९९ ॐ अक्षोभ्याय नमः ।

१००० ॐ सर्वप्रहरणायुधाय नमः ।

 

सर्वप्रहरणायुध ॐ नम इति ॥

 

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।

श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥

 

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

 

॥ इति श्रीमहाभारते अनुशासनपर्वणि

 श्रीविष्णुसहस्रनामावलीइः सम्पूर्णा ॥

bottom of page